У нас вы можете посмотреть бесплатно RENUKA KHADGMALA MANTRA श्रीरेणुका खड्गमाला मन्त्रः (श्री६श्री गुरु श्रीशिवदत्त स्मारक गड्डी,जोधपुर) или скачать в максимальном доступном качестве, которое было загружено на ютуб. Для скачивания выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса savevideohd.ru
॥ अथ श्रीरेणुका खड्गमाला मन्त्रः ॥ ॥ श्री गणेशाय नमः ॥ ॥ श्री रेणुकायै नमः ॥ ॐ रेणुका कुण्डली वक्रा कुण्डल्यपि महाकुला । लीयमाना प्रकर्तव्या वर्णोच्चारेण शङ्कर ॥ लीयमाना विजानीहि निरालम्बा महापदा । अप्रमेया विरूपाक्षीं हुङ्कारं कुण्डली शुभा ॥ आदिक्षान्तं समुच्चार्य प्रणवं चान्तरे न्यसेत् । देहे विन्यस्य बीजानि रक्ष रक्षेति रेणुके ॥ रक्ष मां भार्गवि देवि रक्ष रामप्रसूर्मम । जमदग्नि प्रिये रक्षास्मदीयमिदंवपुः ॥ ॐ श्रीं ह्रीं क्रों ऐं वज्रवैरोचनीये समयिनी छिन्नमस्तके सकलसुरासुरवन्दिते महाभूपालमौलिमालार्चितचरणकमले विकटदन्तच्छटाटोपनिवारिणि मदीयं शरीरं रक्ष रक्ष परमेश्वरि हुं फट् स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । कमलमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि महाऋषिप्रिये वरदायिनि महाभोगप्रदे अस्मदीयं शरीरं वज्रमयं कुरु कुरु दुर्जनान् हन हन महीपालान् क्षोभय क्षोभय परचक्रं भञ्जय भञ्जय जयङ्करि स्मरणमात्रगामिनी त्रैलोक्यस्वामिनि समलवरयूं रमलवरयूं भमलवरयूं क्षमलवरयूं श्री भार्गवि प्रसीद प्रसीद स्वाहा । इति सर्वाङ्गे व्यापकं न्यसेत् । एषा विद्या महाविद्या समया बलवत्तरा । अतिवीर्यतरा तीव्रा सूर्यकोटिसमप्रभा ॥ कुलाङ्गना कुलं सर्वं मदीयं परमेश्वरि । देवि रक्षतु सर्वाङ्गं दिव्याङ्गी भोगदायिनी ॥ रक्ष रक्ष महादेवि शरीरं परमेश्वरि । मदीयं परमानन्दे आपादतलमस्तकम् ॥ हुङ्कारं च ततः कुर्यात् पूजयेत् भुविमण्डले । पूजान्ते वामहस्तेन ह्रीङ्कारं च त्रिधा जपेत् ॥ पश्चात् रेणुका मन्त्रेण मूलमन्त्रेण शाङ्करि । चक्रावरण देवीनां रेणुकाया महौजसः ॥ एकत्र गणनारूप मन्त्रो मन्त्रार्थ गोचरः । मालामन्त्रविधानेन क्रमणोच्चारणे भवेत् ॥ तस्मात् खड्गवरं मन्त्रं स्वतनौ रक्षणं महत् । ध्यानम् सिद्धैरर्चितसुन्दरा श्रुतिमती रामप्रसूर्भार्गवी । ज्ञापर्णाऽदिति रेणुका ऋषिप्रिया श्रीमूलपीठे स्थिता॥ पञ्चार्णैरभिपूजिता श्रुतिधरा खड्गाभिधा मालया । सा मे रक्षतु तत्परार्चनविधौ आवर्तने भाविता ॥ पूर्णानन्दमयी देवी मूलपीठनिवासिनी । परशुराम प्रसूर्माता खड्गाभिदाऽभिरक्षतु ॥ ॐ अस्य श्री रेणुका शुद्ध खड्गमाला महामन्त्रस्य वर्णादित्य ऋषिः गायत्री छन्दः श्री रेणुका देवता ऐं बीजं ह्रीं शक्तिः क्रौं कीलकं ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः । ध्यायेन्नित्यमितिध्यानम् ॥ ....................................................................................................................................................