Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб #Gopigeet в хорошем качестве

#Gopigeet 3 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



#Gopigeet

Hello friends welcome back to our channel if you have not subscribed to my channel yet then please subscribe. Gopi-geet:- ॥ गोपीगीतम् ॥ गोप्य ऊचुः । जयति तेऽधिकं जन्मना व्रजः     श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका-     स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥ शरदुदाशये साधुजातस-     त्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका     वरद निघ्नतो नेह किं वधः ॥ २॥ विषजलाप्ययाद्व्यालराक्षसा-     द्वर्षमारुताद्वैद्युतानलात् । वृषमयात्मजाद्विश्वतोभया-     दृषभ ते वयं रक्षिता मुहुः ॥ ३॥ न खलु गोपिकानन्दनो भवा-     नखिलदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये     सख उदेयिवान्सात्वतां कुले ॥ ४॥ विरचिताभयं वृष्णिधुर्य ते     चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं     शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥ व्रजजनार्तिहन्वीर योषितां     निजजनस्मयध्वंसनस्मित । भज सखे भवत्किंकरीः स्म नो     जलरुहाननं चारु दर्शय ॥ ६॥ प्रणतदेहिनां पापकर्शनं     तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदांबुजं     कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥ मधुरया गिरा वल्गुवाक्यया     बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यती-     रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥ तव कथामृतं तप्तजीवनं     कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं     भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥ प्रहसितं प्रिय प्रेमवीक्षणं     विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदिस्पृशः     कुहक नो मनः क्षोभयन्ति हि ॥ १०॥ चलसि यद्व्रजाच्चारयन्पशून्     नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः     कलिलतां मनः कान्त गच्छति ॥ ११॥ दिनपरिक्षये नीलकुन्तलै-     र्वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन्मुहु-     र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥ प्रणतकामदं पद्मजार्चितं     धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शंतमं च ते     रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥ सुरतवर्धनं शोकनाशनं     स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां     वितर वीर नस्तेऽधरामृतम् ॥ १४॥ अटति यद्भवानह्नि काननं     त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते     जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥ पतिसुतान्वयभ्रातृबान्धवा-     नतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः     कितव योषितः कस्त्यजेन्निशि ॥ १६॥ रहसि संविदं हृच्छयोदयं     प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते     मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥ व्रजवनौकसां व्यक्तिरङ्ग ते     वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां     स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥ यत्ते सुजातचरणाम्बुरुहं स्तनेष     भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद्व्यथते न किंस्वित्     कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥     इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥ If you like the video please hit👍bottom thank you! Jay sri Krishna 🙏

Comments